Homeसंस्कृत सीखें०००४ सरल संस्कृत अनुवाद अभ्यास पाठ २६ से ३०

०००४ सरल संस्कृत अनुवाद अभ्यास पाठ २६ से ३०

ओ३म्

२६ संस्कृत वाक्याभ्यासः

सः गाढ निद्रायाम् अस्ति।
= वह गहरी नींद में है

तस्य गृहे चौरः प्रविष्टः
= उसके घर में चोर घुसा है

सः न जानाति।
= वह नहीं जानता है

तस्य गृहात् ध्वनिः आगच्छति।
= उसके घर से आवाज़ आ रही है

वयं दूरवाणीं कुर्मः।
= हम फोन कर रहे हैं

सः न श्रृणोति।
= वह नहीं सुन रहा है

वयं सर्वे बहिः स्मः।
= हम सब बाहर हैं

चौरः ज्ञातवान् अस्ति ।
= चोर जान गया है

चौरः पलायितः।
= चोर भाग गया

ओ३म्

२७ संस्कृत वाक्याभ्यासः

अद्य एकः काश्मीरी पण्डितः अमिलत्।
= आज एक काश्मीरी पण्डित मिला

सः अनन्तनागे निवसति स्म।
= वह अनंतनाग में रहता था

तत्र सः प्रेम्णा निवसति स्म।
= वहाँ वह प्रेम से रहता था

तस्य बालकाः अनन्तनागे एव पठन्ति स्म।
= उसके बच्चे अनंतनाग में ही पढ़ते थे

तेषां जीवनं सुखमयम् आसीत्।
= उनका जीवन सुखमय था

१९९६ (षण्णवति उत्तर एकोनविंशतितमे) वर्षे आतंकवादिनः तस्य ग्रामं प्राविशन्।
= १९९६ में आतंकवादी उसके गाँव में घुसे

आतंकवादिनः जनान् मारितवन्तः।
= आतंकवादियों ने लोगों को मारा

जनसंहारं दृष्ट्वा ग्रामस्य जनाः भयभीताः अभवन्।
= जनसंहार देखकर गाँव के लोग डर गए।

ते सर्वे सर्वाणि वस्तूनि तत्रैव त्यक्त्वा देहलीम् आगच्छन्।
= सारी वस्तुओं को वहीं छोड़कर वे दिल्ली आ गए

ओ३म्

२८ संस्कृत वाक्याभ्यासः

पुँल्लिंग      स्त्रीलिंग     नपुंसकलिंग

एकः          एका            एकम्

द्वौ           द्वे              द्वे

त्रयः          तिस्रः          त्रीणि

चत्वारः     चतस्रः        चत्वारि

चार के बाद के अंकों का लिंग परिवर्तन नहीं होता है ।

जैसे

पञ्च
षड्
सप्त
अष्ट
नव
दश

आदि आगे की सभी संख्या कर्ता के रूप में ऐसी ही रहेंगी। लिंग नहीं बदलेगा।

एकः बालकः क्रीडति।
एका बालिका पठति।
एकं फलं पतति।

द्वौ पुरुषौ गच्छतः।
द्वे शिक्षिके हसतः।
द्वे पुष्पे विकसतः।

त्रयः साधवः उपदिशन्ति।
तिस्रः महिलाः अर्चन्ति।
त्रीणि नगराणि सन्ति।

चत्वारः सैनिकाः रक्षन्ति।
चतस्रः देव्यः पश्यन्ति।
चत्वारि पुस्तकानि तत्र सन्ति।

पञ्च नृपाः मिलन्ति।
पञ्च बालिकाः धावन्ति।
पञ्च पत्राणि पतन्ति।

ओ३म्

२९ संस्कृत वाक्याभ्यासः

सः श्यामवर्णीयं परिधानं धारितवान् अस्ति।
= उसने काले रंग के कपड़े पहने हैं

तस्य मुखं तु गौरवर्णीयम् अस्ति।
= उसका मुख तो गोरा है

सः आंग्लभाषां वदति।
= वह अंग्रेजी भाषा बोलता है

अतः सर्वे तस्य व्याख्यानं श्रृण्वन्ति।
= इसलिये सभी उसका व्याख्यान सुनते हैं

सः मध्ये मध्ये संस्कृत स्तोत्राणि, सूत्राणि च वदति।
= वह बीच बीच में संस्कृत स्तोत्र और सूत्र बोलता है

श्रोतारः तानि स्तोत्राणि, सूत्राणि अनुवदन्ति।
= श्रोता उन स्तोत्र और सूत्रों को दोहराते हैं

सः तस्य (तेषाम्) अर्थान् वदति।
= वह उसके (उनके ) अर्थ बोलता है

जनाः अर्थं श्रुत्वा प्रसन्नाः भवन्ति।
= लोग अर्थ सुनकर खुश होते हैं

सः सुमधुरेण सुरेण श्लोकानि गायति।
= वह मधुर सुर में श्लोक गाता है

सुमधुरं रागं श्रुत्वा जनाः इतोपि प्रसन्नाः भवन्ति ।
= सुमधुर राग सुनकर लोग और खुश होते हैं

ओ३म्

३० संस्कृत वाक्याभ्यासः

नेता के द्वारा सूचनाएं दी गई।
नायकेन सूचनाः दत्ताः।

दादी के द्वारा कहानियाँ कही गई।
पितामह्या कथाः उक्ताः।

युवती के द्वारा स्वप्न देखे गये।
युवत्या स्वप्नाः दृष्टाः।

दुकानदार के द्वारा साड़िया गिनी गई।
आपणिकेन शाटिकाः गणिताः।

हमारे द्वारे कपड़े खरीदे गए।
अस्माभिः वस्त्राणि क्रीतानि।

राम के द्वारा घर देखे गए।
रामेण गृहाणि दृष्टानि।

मेरे द्वारा दूध पिया गया।
मया दुग्धं पीतम्।

दादा के द्वारा रामायण पढ़ी गई।
पितामहेन रामायणं पठितम्।

छात्रों के द्वारा ग्रन्थ पढ़े जाते हैं।
छात्रैः ग्रन्थाः पठिताः।

सीता के द्वारा बर्तन धोये जाते हैं।
सीतया पात्राणि प्रक्षालितानि।

Must Read